सीधे मुख्य सामग्री पर जाएं

संदेश

मई, 2017 की पोस्ट दिखाई जा रही हैं

दुर्गाद्वात्रिंशन्नाममाला

||ॐ श्री दुर्गाय नमः|| नमो देव्यै महादेव्यै शिवायै सततं नमः। नमः प्रकृत्यै भद्रायै नियताः प्रणताह स्मताम॥ ---------------------- ||दुर्गाद्वात्रिंशन्नाममाला|| दुर्गा दुर्गार्तिशमनी दुर्गापद्विनिवारिणी। दुर्गमच्छेदिनी दुर्गसाधिनी दुर्गनाशिनी || दुर्गतोद्धारिणी दुर्गानिहन्त्री दुर्गमापहा। दुर्गमज्ञानदा दुर्गदैत्यलोकदवानला॥ दुर्गमा दुर्गमालोका दुर्गमात्मस्वरुपिणी। दुर्गमार्गप्रदा दुर्गमविद्या दुर्गमाश्रिता॥ दुर्गमज्ञानसंस्थाना दुर्गमध्यानभासिनी। दुर्गमोहा दुर्गमगा दुर्गमार्थंस्वरुपिणी॥ दुर्गमासुरसंहन्त्री दुर्गमायुधधारिणी। दुर्गमाङ्गी दुर्गमता दुर्गम्या दुर्गमेश्र्वरी॥ दुर्गभीमा दुर्गभामा दुर्गभा दुर्गदारिणी। नामावलिमिमां यस्तु दुर्गाया मम मानवः॥ पठेत् सर्वभयान्मुक्तो भविष्यति न संशयः॥ ॥इति दुर्गाद्वात्रिंशन्नाममाला संपूर्णा॥

श्रीशिवरक्षा-स्तोत्र

ॐ नमः शिवाय । ============ अस्य श्रीशिवरक्षा-स्तोत्र-मन्त्रस्य याज्ञवल्क्य ऋषिः, श्रीसदाशिवो देवता, अनुष्टुप् छन्दः, श्रीसदाशिव-प्रीत्यर्थे शिवरक्षा-स्तोत्र-जपे विनियोगः ॥ चरितं देवदेवस्य महादेवस्य पावनम् । अपारं परमोदारं चतुर्वर्गस्य साधनम् ॥ (१) गौरी-विनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम् । शिवं ध्यात्वा दशभुजं शिवरक्षां पठेन्नरः ॥ (२) गङ्गाधरः शिरः पातु भालमर्द्धेन्दु-शेखरः । नयने मदन-ध्वंसी कर्णौ सर्प-विभूषणः ॥ (३) घ्राणं पातु पुराराति-र्मुखं पातु जगत्पतिः । जिह्वांप वागीश्वकरः पातु कन्धरां शिति-कन्धरः ॥ (४) श्रीकण्ठः पातु मे कण्ठं स्कन्धौ विश्वा-धुरन्धरः । भुजौ भूभार-संहर्त्ता करौ पातु पिनाकधृक् ॥ (५) हृदयं शङ्करः पातु जठरं गिरिजापतिः । नाभिं मृत्युञ्जयः पातु कटी व्याघ्रजिनाम्बरः ॥ (६) सक्थिनी पातु दीनार्त्त-शरणागत-वत्सलः । ऊरू महेश्वतरः पातु जानुनी जगदीश्व्रः ॥ (७) जङ्घे पातु जगत्कर्त्ता गुल्फौ पातु गणाधिपः । चरणौ करुणासिन्धुः सर्वाङ्गानि सदाशिवः ॥ (८) एतां शिव-बलोपेतां रक्षां यः सुकृती पठेत् । स भुक्त्वा सकलान् कामान् शिव-सायुज्यमाप्नुयात् ॥ (९) ग्रह-भ...