सीधे मुख्य सामग्री पर जाएं

संदेश

श्रीराधास्तोत्रं लेबल वाली पोस्ट दिखाई जा रही हैं

श्रीराधास्तोत्र - गणेश कृत

 🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚 *॥ श्रीराधास्तोत्रं गणेशकृतम् ॥* श्रीगणेश उवाच । *तव पूजा जगन्मातर्लोकशिक्षाकरी शुभे।* *ब्रह्मस्वरूपा भवती कृष्णवक्षःस्थलस्थिता ॥ १॥* *यत्पादपद्ममतुतलं ध्यायन्ते ते सुदुर्लभम् ।* *सुरा ब्रह्मेशशेषाद्या मुनीन्द्राः सनकादयः ॥ २॥* *जिवन्मुक्ताश्च भक्ताश्च सिद्धेन्द्राः कपिलादयः ।* *तस्य प्राणाधिदेवि त्वं प्रिया प्राणाधिका परा ॥ ३॥* *वामाङ्गनिर्मिता राधा दक्षिणाङ्गश्च माधवः ।* *महालक्ष्मीर्जगन्माता तव वामाङ्गनिर्मिता ॥ ४॥* *वसोः सर्वनिवासस्य प्रसूस्त्वं परमेश्वरी ।* *वेदानां जगतामेव मूलप्रकृतिरीश्वरी ॥ ५॥* *सर्वाः प्राकृतिका मातः सृष्ट्यां च त्वद्विभूतयः ।* *विश्वानि कार्यरूपाणि त्वं च कारणरूपिणी ॥ ६॥* *प्रलये ब्रह्मणः पाते तन्निमेषो हरेरपि ।* *आदौ राधां समुच्चार्य पश्चात् कृष्णं परात्परम् ॥ ७॥* *स एव पण्डितो योगी गोलोकं याति लीलया ।* *व्यतिक्रमे महापी ब्रह्महत्यां लभेद् ध्रुवम् ॥ ८॥* *जगतां भवती माता परमात्मा पिता हरिः ।* *पितुरेव गुरुर्माता पूज्या वन्द्या परत्परा ॥ ९॥* *भजते देवमन्यं वा कृष्णं वा सर्वकारणम् ।* *पुण्यक्षेत्रे महामूढो यदि निन्दा राधीकाम् ॥ १०॥...