सीधे मुख्य सामग्री पर जाएं

संदेश

श्रीजगन्नाथाष्टकम् लेबल वाली पोस्ट दिखाई जा रही हैं

श्रीजगन्नाथाष्टकम्

श्रीजगन्नाथाष्टकम्  कदाचित् कालिन्दी_तट_विपिन_सङ्गीत_तरलो मुदाभीरी_नारी_वदन_कमलास्वाद_मधुपः । रमा_शम्भु_ब्रह्मामर_पति_गणेशार्चित_पदो जगन्नाथः स्वामी नयन_पथ_गामी भवतु मे ॥१॥ भुजे सव्ये वेणुं शिरसि शिखि_पिच्छं कटितटे दुकूलं नेत्रान्ते सहचर_कटाक्षं च विदधत् । सदा श्रीमद्वृन्दावन_वसति_लीला_परिचयो जगन्नाथः स्वामी नयन_पथ_गामी भवतु मे ॥२॥ महाम्भोधेस्तीरे कनक_रुचिरे नील_शिखरे वसन् प्रासादान्तः सहज_वलभद्रेण बलिना । सुभद्रा_मध्यस्थः सकल_सुर_सेवावसर_दो जगन्नाथः स्वामी नयन_पथ_गामी भवतु मे ॥३॥ कृपा_पारावारः सजल_जलद_श्रेणि_रुचिरो रमा_वाणी_रामः स्फुरदमल_पंकेरुह_मुखः । सुरेन्द्रैराराध्यः श्रुति_गण_शिखा_गीत_चरितो जगन्नाथः स्वामी नयन_पथ_गामी भवतु मे ॥४॥ रथारूढो गच्छन् पथि मिलित_भूदेव पटलैः स्तुति_प्रादुर्भावं प्रति_पदमुपाकर्ण्य सदयः । दया_सिन्धुर्बन्धुः सकल_जगतां सिन्धु_सुतया जगन्नाथः स्वामी नयन_पथ_गामी भवतु मे ॥५॥ परंब्रह्मापीडः कुवलय_दलोत्फुल्ल_नयनो निवासी नीलाद्रौ निहित_चरणोऽनन्त_शिरसि । रसानन्दी राधा_सरस_वपुरालिङ्गन_सुखो जगन्नाथः स्वामी नयन_पथ_गामी भवतु मे ॥६॥ न...