सीधे मुख्य सामग्री पर जाएं

संदेश

नाश लेबल वाली पोस्ट दिखाई जा रही हैं

समस्त पापों के नाश हेतु श्री रुद्र द्वादश नाम स्तोत्र

 * श्रीरुद्रद्वादशनामस्तोत्रं * 〰️〰️〰️🌸🕉️🌸〰️〰️〰️ प्रथमं तु महादेवं द्वितीयं तु महेश्वरं । तृतीयं शङ्करं प्रोक्तं चतुर्थं वृषभध्वजम् ॥ १॥ पञ्चमं कृत्तिवासं च षष्ठं कामाङ्गनाशनं । सप्तमं देवदेवेशं श्रीकण्ठं चाष्टमं तथा ॥ २॥ नवमं तु हरं देवं दशमं पार्वतीपतिं । रुद्रमेकादशं प्रोक्तं द्वादशं शिवमुच्यते ॥ ३॥ एतद्वादशनामानि त्रिसन्ध्यं यः पठेन्नरः । गोघ्नश्चैव कृतघ्नश्च भ्रूणहा गुरुतल्पगः ॥ ४॥ स्त्रीबालघातकश्चैव सुरापो वृषलीपतिः । सर्वं नाशयते पापं शिवलोकं स गच्छति ॥ ५॥ शुद्धस्फटिकसङ्काशं त्रिनेत्रं चन्द्रशेखरं । इन्दुमण्डलमध्यस्थं वन्दे देवं सदाशिवम् ॥ ६॥ ॥श्रीरुद्रद्वादशनामस्तोत्रं सम्पूर्णम् ॥ 〰️〰️〰️🌸🕉️🌸〰️〰️〰️