श्रीशनिवज्रपंजरकवचम्
श्रीशनिवज्रपंजरकवचम् 〰️〰️〰️〰️〰️〰️〰️☘️🍀 श्री गणेशाय नमः ॥ विनियोगः । ॐ अस्य श्रीशनैश्चरवज्रपञ्जर कवचस्य कश्यप ऋषिः, अनुष्टुप् छन्दः, श्री शनैश्चर देवता, श्रीशनैश्चर प्रीत्यर्थे जपे विनियोगः ॥ ऋष्यादि न्यासः । श्रीकश्यप ऋषयेनमः शिरसि । अनुष्टुप् छन्दसे नमः मुखे । श्रीशनैश्चर देवतायै नमः हृदि । श्रीशनैश्चरप्रीत्यर्थे जपे विनियोगाय नमः सर्वाङ्गे ॥ ध्यानम् । नीलाम्बरो नीलवपुः किरीटी गृध्रस्थितस्त्रासकरो धनुष्मान् । चतुर्भुजः सूर्यसुतः प्रसन्नः सदा मम स्याद् वरदः प्रशान्तः ॥ १॥ ब्रह्मा उवाच ॥ शृणुध्वमृषयः सर्वे शनिपीडाहरं महत् । कवचं शनिराजस्य सौरेरिदमनुत्तमम् ॥ २॥ कवचं देवतावासं वज्रपंजरसंज्ञकम् । शनैश्चरप्रीतिकरं सर्वसौभाग्यदायकम् ॥ ३॥ ॐ श्रीशनैश्चरः पातु भालं मे सूर्यनन्दनः । नेत्रे छायात्मजः पातु पातु कर्णौ यमानुजः ॥ ४॥ नासां वैवस्वतः पातु मुखं मे भास्करः सदा । स्निग्धकण्ठश्च मे कण्ठं भुजौ पातु महाभुजः ॥ ५॥ स्कन्धौ पातु शनिश्चैव करौ पातु-शुभप्रदः । वक्षः पातु यमभ्राता कुक्षिं पात्वसितस्तथा ॥ ६॥ नाभिं ग्रहपतिः पातु मन्दः पातु कटिं तथा । ऊरू ममान्तकः पातु यमो जानुयुगं तथा ॥ ७॥ पादौ