श्रीशनिवज्रपंजरकवचम्

 श्रीशनिवज्रपंजरकवचम् 

〰️〰️〰️〰️〰️〰️〰️☘️🍀



श्री गणेशाय नमः ॥


विनियोगः ।

ॐ अस्य श्रीशनैश्चरवज्रपञ्जर कवचस्य कश्यप ऋषिः,

अनुष्टुप् छन्दः, श्री शनैश्चर देवता,

श्रीशनैश्चर प्रीत्यर्थे जपे विनियोगः ॥


ऋष्यादि न्यासः । 

श्रीकश्यप ऋषयेनमः शिरसि ।

अनुष्टुप् छन्दसे नमः मुखे ।

श्रीशनैश्चर देवतायै नमः हृदि ।

श्रीशनैश्चरप्रीत्यर्थे जपे विनियोगाय नमः सर्वाङ्गे ॥


ध्यानम् ।

नीलाम्बरो नीलवपुः किरीटी गृध्रस्थितस्त्रासकरो धनुष्मान् ।

चतुर्भुजः सूर्यसुतः प्रसन्नः सदा मम स्याद् वरदः प्रशान्तः ॥ १॥


ब्रह्मा उवाच ॥


श‍ृणुध्वमृषयः सर्वे शनिपीडाहरं महत् ।

कवचं शनिराजस्य सौरेरिदमनुत्तमम् ॥ २॥


कवचं देवतावासं वज्रपंजरसंज्ञकम् ।

शनैश्चरप्रीतिकरं सर्वसौभाग्यदायकम् ॥ ३॥


ॐ श्रीशनैश्चरः पातु भालं मे सूर्यनन्दनः ।

नेत्रे छायात्मजः पातु पातु कर्णौ यमानुजः ॥ ४॥


नासां वैवस्वतः पातु मुखं मे भास्करः सदा ।

स्निग्धकण्ठश्च मे कण्ठं भुजौ पातु महाभुजः ॥ ५॥


स्कन्धौ पातु शनिश्चैव करौ पातु-शुभप्रदः ।

वक्षः पातु यमभ्राता कुक्षिं पात्वसितस्तथा ॥ ६॥


नाभिं ग्रहपतिः पातु मन्दः पातु कटिं तथा ।

ऊरू ममान्तकः पातु यमो जानुयुगं तथा ॥ ७॥


पादौ मन्दगतिः पातु सर्वांगं पातु पिप्पलः ।

अंगोपांगानि सर्वाणि रक्षेन् मे सूर्यनन्दनः ॥ ८॥


इत्येतत् कवचं दिव्यं पठेत् सूर्यसुतस्य यः ।

न तस्य जायते पीडा प्रीतो भवति सूर्यजः ॥ ९॥


व्यय-जन्म-द्वितीयस्थो मृत्युस्थानगतोऽपि वा ।

कलत्रस्थो गतो वापि सुप्रीतस्तु सदा शनिः ॥ १०॥


अष्टमस्थे सूर्यसुते व्यये जन्मद्वितीयगे ।

कवचं पठते नित्यं न पीडा जायते क्वचित् ॥ ११॥


इत्येतत्कवचं दिव्यं सौरेर्यन्निर्मितं पुरा ।

द्वादशाष्टमजन्मस्थदोषान्नाशयते सदा ।

जन्मलग्नस्थितान् दोषान् सर्वान्नाशयते प्रभुः ॥ १२॥


॥ इति श्रीब्रह्माण्डपुराणे ब्रह्म-नारदसंवादे

शनिवज्रपंजरकवचं सम्पूर्णम् ॥

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

श्रीरुद्रद्वादशनामस्तोत्रम्

शिव नाम की महिमा

इन इक्कीस वस्तुओं को सीधे पृथ्वी पर रखना वर्जित होता है