श्रीदत्तात्रेयसहस्रनामस्तोत्रम्

 श्रीदत्तात्रेयसहस्रनामस्तोत्रम् 🌹🌿

〰️〰️〰️〰️〰️〰️〰️〰️〰️〰️



निखिलागमतत्त्वज्ञ ब्रह्मज्ञानपरायण ।

वदास्माकं मुक्त्युपायं सूत सर्वोपकारकम् ॥ १॥


सर्वदेवेषु को देवः सद्यो मोक्षप्रदो भवेत् ।

को मनुर्वा भवेत्तस्य सद्यः प्रीतिकरो ध्रुवम् ॥ २॥


सूत उवाच -

निगमागमतत्त्वज्ञो ह्यवधूतश्चिदम्बरः ।

भक्तवात्सल्यप्रवणो दत्त एव हि केवलः ॥ ३॥


सदा प्रसन्नवदनो भक्तचिन्तैकतत्परः ।

तस्य नामान्यनन्तानि वर्तन्तेऽथाप्यदः परम् ॥ ४॥


दत्तस्य नामसाहस्रं तस्य प्रीतिविवर्धनम् ।

यस्त्विदं पठते नित्यं दत्तात्रेयैकमानसः ॥ ५॥


मुच्यते सर्वपापेभ्यः स सस्द्यो नात्र संशयः ।

अन्ते तद्धाम संयाति पुनरावृत्तिदुर्लभम् ॥ ६॥


(अस्य श्रीमद्दत्तात्रेयसहस्रनामकस्य तु ।

ऋषिर्ब्रह्म विनिरिर्दिष्टोनुष्टुप्छन्दं प्रकीर्तिम् ॥


दत्तात्रेयोऽस्यदेवता दत्तात्रेयात्मतारकम् ।

दाकारंरेफसंयुक्तं दत्तबीजमुदाहृतम् ॥


द्रामित्यादि त्रिभिः प्रोक्तं बीजं शक्तिश्च कीलकम् ।

षाअॅऊघर्फु? बीजसंयुक्तैं षडङ्गन्यास ईरितः ॥ ??

पीताम्बरालङ्कृत पृष्ठभागं भस्मावगुण्ठामलरुक्मदेहम् ।

विद्युत्रभापिङ्गजटाभिरामं श्रीदत्तयोगीशमहं भजामि ॥)


अस्य श्रीमद्दत्तात्रेयसहस्रनामस्तोत्रमन्त्रस्य अवधूत ऋषिः ।

अनुष्टुप्छन्दः । दिगम्बरो देवता । ॐ बीजम् । ह्रीं शक्तिः ।

क्रौं कीलकम् । श्रीदत्तात्रेयप्रीत्यर्थे जपे विनियोगः ॥


अथ ध्यानम् -

दिगम्बरं भस्मविलेपिताङ्गं बोधात्मकं मुक्तिकरं पर्सन्नम् ।

निर्मानसं श्यामतनुं भजेऽहं दत्तात्रेयं ब्रह्मसमाधियुक्तम् ॥


अथ सहस्रनामस्तोत्रम् ।

दत्तात्रेयो महोयोगी योगेशश्चामरप्रभुम् ।

मुनिर्दिगम्बरो बालो मायामुक्तो मदापहः ॥ १॥


अवधूतो महानाथः शङ्करोऽमरवल्लभः ।

महादेवश्चादिदेवः पुराणप्रभुरीश्वरः ॥ २॥


सत्त्वकृत्सत्त्वभृद्भावः सत्त्वात्मा सत्त्वसागरः ।

सत्त्ववित्सत्त्वसाक्षी च सत्त्वसाध्योऽमराधिपः ॥ ३॥


भूतकृद्भूतभृच्चैव भूतात्मा भूतसम्भवः ।

भूतभावो भवो भूतवित्तथा भूतकारणः ॥ ४॥


भूतसाक्षी प्रभूतिश्च भूतानां परमा गतिः ।

भूतसङ्गविहीनात्मा भूतात्मा भूतशङ्करः ॥ ५॥


भूतनाथो महानाथश्चादिनाथो महेश्वरः ।

सर्वभूतनिवासात्मा भूतसन्तापनाशनः ॥ ६॥


सर्वात्मा सर्वभृत्सर्वः सर्वज्ञः सर्वनिर्णयः ।

सर्वसाक्षी बृहद्भानुः सर्ववित्सर्वमङ्गलः ॥ ७॥


शान्तः सत्यः समः पूर्णो ह्येकाकी कमलापतिः ।

रामो रामप्रियश्चैव विरामो रामकारणम् ॥ ८॥


शुद्धात्मा पावनोऽनन्तः प्रतीतः परमार्थभृत् ।

हंससाक्षी विभुश्चैव प्रभुः प्रलय इत्यपि ॥ ९॥


सिद्धात्मा परमात्मा च सिद्धानां परमा गतिः ॥


सिद्धिसिद्धस्तथा साध्यः साधनो ह्युत्तमस्तथा ॥ १०॥


सुलक्षणः सुमेधावी विद्यावान्विगतान्तरः ।

विज्वरश्च महाबाहुर्बहुलानन्दवर्धनः ॥ ११॥


अव्यक्तपुरुषः प्राज्ञः परज्ञः परमार्थदृक् ।

परापरविनिर्मुक्तो युक्तस्तत्त्वप्रकाशवान् ॥ १२॥


दयावान्भगवान्भावी भावात्मा भावकारणः ।

भवसन्तापनाशश्च पुष्पवान्पण्डितो बुधः ॥ १३॥


प्रत्यक्षवस्तुर्विश्वात्मा प्रत्यग्ब्रह्म सनातनः ।

प्रमाणविगतश्चैव प्रत्याहारनियोजकः ॥ १४॥


प्रणवः प्रणवातीतः प्रमुखः प्रलयात्मकः ।

मृत्युञ्जयो विविक्तात्मा शङ्करात्मा परो वपुः ॥ १५॥


परमस्तनुविज्ञेयः परमात्मनि संस्थितः ।

प्रबोधकलनाधारः प्रभावप्रवरोत्तमः ॥ १६॥


चिदम्बरश्चिद्विलासश्चिदाकाशश्चिदुत्तमः ।

चित्तचैतन्यचित्तात्मा देवानां परमा गतिः ॥ १७॥


अचेत्यश्चेतनाधारश्चेतनाचित्तविक्रमः ।

चित्तात्मा चेतनारूपो लसत्पङ्कजलोचनः ॥ १८॥


परब्रह्म परं ज्योतिः परं धाम परन्तपः ।

परं सूत्रं परं तन्त्रं पवित्रं परमोहवान् ॥ १९॥


क्षेत्रज्ञः क्षेत्रगः क्षेत्रः क्षेत्राधारः पुरञ्जनः ।

क्षेत्रशून्यो लोकसाक्षी क्षेत्रवान्बहुनायकः ॥ २०॥


योगेन्दो योगपूज्यश्च योग आत्मविदां शुचिः ।

योगमायाधरः स्थाणुरचलः कमलापतिः ॥ २१॥


योगेशो योगनिर्माता योगज्ञानप्रकाशनः ।

योगपालो लोकपालः संसारतमनाशनः ॥ २२॥


गुह्यो गुह्यतमो गुप्तो मुक्तो युक्तः सनातनः ।

गहनो गगनाकारो गम्भीरो गणनायकः ॥ २३॥


गोविन्दो गोपतिर्गोप्ता गोभागो भावसंस्थितः ।

गोसाक्षी गोतमारिश्च गान्धारो गगनाकृतिः ॥ २४॥


योगयुक्तो भोगयुक्तः शङ्कामुक्तसमाधिमान् ।

सहजः सकलेशानः कार्तवीर्यवरप्रदः ॥ २५॥


सरजा विरजाः पुंसो पावनः पापनाशनः । पुमान्

परावरविनिर्मुक्तः परञ्ज्योतिः पुरातनः ॥ २६॥


नानाज्योतिरनेकात्मा स्वयञ्ज्योतिः सदाशिवः ।

दिव्यज्योतिर्मयश्चैव सत्यविज्ञानभास्करः ॥ २७॥


नित्यशुद्धः परः पूर्णः प्रकाशः प्रकटोद्भवः ।

प्रमादविगतश्चैव परेशः परविक्रमः ॥ २८॥


योगी योगो योगपश्च योगाभ्यासप्रकाशनः ।

योक्ता मोक्ता विधाता च त्राता पाता निरायुध्यः ॥ २९॥


नित्यमुक्तो नित्ययुक्तः सत्यः सत्यपराक्रमः ।

सत्त्वशुद्धिकरः सत्त्वस्तथा सत्त्वम्भृतां गतिः ॥ ३०॥


श्रीधरः श्रीवपुः श्रीमान् श्रीनिवासोऽमरार्चितः ।

श्रीनिधिः श्रीपतिः श्रेष्ठः श्रेयस्कश्चरमाश्रयः ॥ ३१॥


त्यागी त्यागार्थसम्पन्नस्त्यागात्मा त्यागविग्रहः ।

त्यागलक्षणसिद्धात्मा त्यागज्ञस्त्यागकारणः ॥ ३२॥


भोगो भोक्ता तथा भोग्यो भोगसाधनकारणः ।

भोगी भोगार्थसम्पन्नो भोगज्ञानप्रकाशनः ॥ ३३॥


केवलः केशवः कृष्णः कंवासाः कमलालयः ।

कमलासनपूज्यश्च हरिरज्ञानखण्डनः ॥ ३४॥


महात्मा महदादिश्च महेशोत्तमवन्दितः ।

मनोबुद्धिविहीनात्मा मानात्मा मानवाधिपः ॥ ३५॥


भुवनेशो विभूतिश्च धृतिर्मेधा स्मृतिर्दया ।

दुःखदावानलो बुद्धः प्रबुद्धः परमेश्वरः ॥ ३६॥


कामहा क्रोधहा चैव दम्भदर्पमदापहः ।

अज्ञानपतिमिरारिश्च भवारिर्भुवनेश्वरः ॥ ३७॥


रूपकुद्रूपभृद्रूपी रूपात्मा रूपकारणः ।

रूपज्ञो रूपसाक्षी च नामरूपो गुणान्तकः ॥ ३८॥


अप्रमेयः प्रमेयश्च प्रमाणं प्रणवाश्रयः ।

प्रमाणरहितोऽचिन्त्यश्चेतनाविगतोऽजरः ॥ ३९॥


अक्षरोऽक्षरमुक्तश्च विज्वरो ज्वरनाशनः ।

विशिष्टो वित्तशास्त्री च दृष्टो दृष्टान्तवर्जितः ॥ ४०॥


गुणेशो गुणकायश्च गुणात्मा गणभावनः ।

अनन्तगुणसम्पन्नो गुणगर्भो गुणाधिपः ॥ ४१॥


गणेशो गुणनाथश्च गुणात्मा गणभावनः ।

गणबन्धुर्विवेकात्मा गुणयुक्तः पराक्रमी ॥ ४२॥


अतर्क्यः क्रतुरग्निश्च कृतज्ञः सफलाश्रयः ।

यज्ञश्च यज्ञफल्दो यज्ञ इज्योऽमरोत्तमः ॥ ४३॥


हिरण्यगर्भः श्रीगर्भः खगर्भः कुणपेश्वरः ।

मायागर्भो लोकगर्भः स्वयम्भूर्भुवनान्तकः ॥ ४४॥


निष्पापो निबिडो नन्दी बोधी बोधसमाश्रयः ।

बोधात्मा बोधनात्मा च भेदवैतण्डखण्डनः ॥ ४५॥


स्वाभाव्यो भावनिर्मुक्तो व्यक्तोऽव्यक्तसमाश्रयः ।

नित्यतृप्तो निराभासो निर्वाणः शरणः सुहृत् ॥ ४६॥


गुह्येशो गुणगम्भीरो गुणदोषनिवारणः ।

गुणसङ्गविहीनश्च योगारेर्दर्पनाशनः ॥ ४७॥


आनन्दः परमानन्दः स्वानन्दसुखवर्धनः ।

सत्यानन्दश्चिदानन्दः सर्वानन्दपरायणः ॥ ४८॥


सद्रूपः सहजः सत्यः स्वानन्दः सुमनोहरः ।

सर्वः सर्वान्तरश्चैव पूर्वात्पूर्वतरस्तथा ॥ ४९॥


खमयः खपरः खादिः खम्ब्रह्म खतनुः खगः ।

खवासाः खविहीनश्च खनिधिः खपराश्रयः ॥ ५०॥


अनन्तश्चादिरूपश्च सूर्यमण्डलमध्यगः ।

अमोघः परमामोघः परोक्षः वरदः कविः ॥ ५१॥


विश्वचक्षुर्विश्वसाक्षी विश्वबाहुर्धनेश्वरः ।

धनञ्जयो महातेजास्तेजिष्ठस्तैजसः सुखी ॥ ५२॥


ज्योतिर्ज्योतिर्मयो जेता ज्योतिषां ज्योतिरात्मकः ।

ज्योतिषामपि ज्योतिश्च जनको जनमोहनः ॥ ५३॥


जितेन्द्रियो जितक्रोधो जितात्मा जितमानसः ।

जितसङ्गो जितप्राणो जितसंसारवासनः ॥ ५४॥


निर्वासनो निरालम्बो निर्योगक्षेमवर्जितः ।

निरीहो निरहङ्कारो निराशीर्निरुपाधिकः ॥ ५५॥


नित्यबोधो विविक्तात्मा विशुद्धोत्तमगौरवः ।

विद्यार्थी परमार्थी च श्रद्धार्थी साधनात्मकः ॥ ५६॥


प्रत्याहारी निराहारी सर्वाहारपरायणः ।

नित्यशुद्धो निराकाङ्क्षी पारायणपरायणः ॥ ५७॥


अणोरणुतरः सूक्ष्मः स्थूलः स्थूलतरस्तथा ।

एकस्तथाऽनेकरूपो विश्वरूपः सनातनः ॥ ५८॥


नैकरूपो विरूपात्मा नैकबोधमयोऽपि च ।

नैकनाममयश्चैव नैकविद्याविवर्धनः ॥ ५९॥


एकश्चैकान्तिकश्चैव नानाभावविवर्जितः ।

एकाक्षरस्तथा बीजः पूर्णबिम्बः सनातनः ॥ ६०॥


मन्त्रवीर्यो मन्त्रबीजः शास्त्रवीर्यो जगत्पतिः ।

नानावीर्यधरश्चैव शक्रेशः पृथिवीपतिः ॥ ६१॥


प्राणेशः प्राणदः प्राणः प्राणायामपरायणः ।

प्राणपञ्चकनिर्मुक्तः कोशपञ्चकवर्जितः ॥ ६२॥


निश्चलो निष्कलोऽसङ्गो निष्प्रपञ्चो निरामयः ।

निराधारो निराकारो निर्विकारो निरञ्जनः ॥ ६३॥


निष्प्रतीतो निराभासो निरासक्तो निराकुलः ।

निष्ठासर्वगतश्चैव निरारम्भो निराश्रयः ॥ ६४॥


निरन्तरः सत्त्वगोप्ता शान्तो दान्तो महामुनिः ।

निःशब्दः सुकृतः स्वस्थः सत्यवादी सुरेश्वरः ॥ ६५॥


ज्ञानदो ज्ञानविज्ञानी ज्ञानात्माऽऽनन्दपूरितः ।

ज्ञानयज्ञविदां दक्षो ज्ञानाग्निर्ज्वलनो बुधः ॥ ६६॥


दयावान्भवरोगारिश्चिकित्साचरमागतिः ।

चन्द्रमण्डलमध्यस्थश्चन्द्रकोटिसुशीतलः ॥ ६७॥


यन्तकृत्परमो यन्त्री यन्त्रारूढपराजितः ।

यन्त्रविद्यन्त्रवासश्च यन्त्राधारो धराधरः ॥ ६८॥


तत्त्वज्ञस्तत्त्वभूतात्मा महत्तत्त्वप्रकाशनः ।

तत्त्वसङ्ख्यानयोगज्ञः साङ्ख्यशास्त्रप्रवर्तकः ॥ ६९॥


अनन्तविक्रमो देवो माधवश्च धनेश्वरः ।

साधुः साधुवरिष्ठात्मा सावधानोऽमरोत्तमः ॥ ७०॥


निःसङ्कल्पो निराधारो दुर्धरो ह्यात्मवित्पतिः ।

आरोग्यसुखदश्चैव प्रवरो वासवस्तथा ॥ ७१॥


परेशः परमोदारः प्रत्यक्चैतन्यदुर्गमः ।

दुराधर्षो दुरावासो दूरत्वपरिनाशनः ॥ ७२॥


वेदविद्वेदकृद्वेदो वेदात्मा विमलाशयः ।

विविक्तसेवी च संसारश्रमनाशनस्तथा ॥ ७३॥


ब्रह्मयोनिर्बृहद्योनिर्विश्वयोनिर्विदेहवान् ।

विशालाक्षो विश्वनाथो हाटकाङ्गदभूषणः ॥ ७४॥


अबाध्यो जगदाराध्यो जगदार्जवपालनः ।

जनवान्धनवान्धर्मी धर्मगो धर्मवर्धनः ॥ ७५॥


अमृतः शाश्वतः साद्यः सिद्धिदः सुमनोहरः ।

खलुब्रह्मखलुस्थानो मुनीनां परमा गतिः ॥ ७६॥


उपद्रष्टा तथा श्रेष्ठः शुचिर्भूतो ह्यनामयः ।

वेदसिद्धान्तवेद्यश्च मानसाह्लादवर्धनः ॥ ७७॥


देहदन्यो गुणादन्यो लोकादन्यो विवेकवित् ।

दुष्टस्वप्नहरश्चैव गुरुर्गुरुवरोत्तमः ॥ ७८॥


कर्मी कर्मविनिर्मुक्तः संन्यासी साधकेश्वरः ।

सर्वभावविहीनश्च तृष्णासङ्गनिवारकः ॥ ७९॥


त्यागी त्यागवपुस्त्यागस्त्यागदानविवर्जितः ।

त्यागकारणत्यागात्मा सद्गुरुः सुखदायकः ॥ ८०॥


दक्षो दक्षादिवन्द्यश्च ज्ञानवादप्रवर्तकः  ।

शब्दब्रह्ममयात्मा च शब्दब्रह्मप्रकाशवान् ॥ ८१॥


ग्रसिष्णुः प्रभविष्णुश्च सहिष्णुर्विगतान्तरः  ।

विद्वत्तमो महावन्द्यो विशालोत्तमवाङ्मुनिः ॥ ८२॥


ब्रह्मविद्ब्रह्मभावश्च ब्रह्मर्षिर्बाह्मणप्रियः  ।

ब्रह्म ब्रह्मप्रकाशात्मा ब्रह्मविद्याप्रकाशनः ॥ ८३॥


अत्रिवंशप्रभूतात्मा तापसोत्तमवन्दितः  ।

आत्मवासी विधेयात्मा ह्यत्रिवंशविवर्धनः ॥ ८४॥


प्रवर्तनो निवृत्तात्मा प्रलयोदकसन्निभः  ।

नारायणो महागर्भो भार्गवप्रियकृत्तमः ॥ ८५॥


सङ्कल्पदुःखदलनः संसारतमनाशनः  ।

त्रिविक्रमस्त्रिधाकारस्त्रिमूर्तिस्त्रिगुणात्मकः ॥ ८६॥


भेदत्रयहरश्चैव तापत्रयनिवारकः  ।

दोषत्रयविभेदी च संशयार्णवखण्डनः ॥ ८७॥


असंशयस्त्वसम्मूढो ह्यवादी राजनन्दितः  ।

राजयोगी महायोगी स्वभावगलितस्तथा ॥ ८८॥


पुण्यश्लोकः पवित्राङ्घ्रिर्ध्यानयोगपरायणः  ।

ध्यानस्थो ध्यानगम्यश्च विधेयात्मा पुरातनः ॥ ८९॥


अविज्ञेयो ह्यन्तरात्मा मुख्यबिम्बसनातनः  ।

जीवसञ्जीवनो जीवश्चिद्विलासश्चिदाश्रयः ॥ ९०॥


महेन्द्रोऽमरमान्यश्च योगेन्द्रो योगवित्तमः  ।

योगधर्मस्तथा योगस्तत्त्वस्तत्त्वविनिश्चयः ॥ ९१॥


नैकबाहुरनन्तात्मा नैकनामपराक्रमः  ।

नैकाक्षी नैकपादश्च नाथनाथोत्तमोत्तमः ॥ ९२॥


सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्  ।

सहस्ररूपदृक्चैव सहस्रारमयोद्धवः ॥ ९३॥


त्रिपादपुरुषश्चैव त्रिपादूर्ध्वस्तथैव च  ।

त्र्यम्बकश्च महावीर्यो योगवीर्यविशारदः ॥ ९४॥


विजयी विनयी जेता वीतरागी विराजितः  ।

रुद्रो रौद्रो महाभीमः प्राज्ञमुख्यः सदाशुचिः ॥ ९५॥


अन्तर्ज्योतिरनन्तात्मा प्रत्यगात्मा निरन्तरः ।

अरूपश्चात्मरूपश्च सर्वभावविनिर्वृतः ॥ ९६॥


अन्तः शून्यो बहिः शून्यः शून्यात्मा शून्यभावनः  ।

अन्तःपूर्णो बहिःपूर्णः पूर्णात्मा पूर्णभावनः ॥ ९७॥


अन्तस्त्यागी बहिस्त्यागी त्यागात्मा सर्वयोगवान्  ।

अन्तर्यागी बहिर्यागी सर्वयोगपरायणः ॥ ९८॥


अन्तर्भोगी बहिर्भोगी सर्वभोगविदुत्तमः  ।

अन्तर्निष्ठो बहिर्निष्ठः सर्वनिष्ठामयस्तथा ॥ ९९॥


बाह्यान्तरविमुक्तश्च बाह्यान्तरविवर्जितः  ।

शान्तः शुद्धो विशुद्धश्च निर्वाणः प्रकृतेः परः ॥ १००॥


अकालः कालनेमी च कालकालो जनेश्वरः  ।

कालात्मा कालकर्ता च कालज्ञः कालनाशनः ॥ १०१॥


कैवल्यपददाता च कैवल्यसुखदायकः  ।

कैवल्यकलनाधारो निर्भरो हर्षवर्धनः ॥ १०२॥


हृदयस्थो हृषीकेशो गोविन्दो गर्भवर्जितः  ।

सकलागमपूज्यश्च निगमो निगमाश्रयः ॥ १०३॥


पराशक्तिः पराकीर्तिः परावृत्तिर्निधिस्मृतिः  ।

पराविद्या पराक्षान्तिर्विभक्तिर्युक्तसद्गतिः ॥ १०४॥


स्वप्रकाशः प्रकाशात्मा परसंवेदनात्मकः  ।

स्वसेव्यः स्वविदां स्वात्मा स्वसंवेद्योऽनघः क्षमी ॥ १०५॥


स्वानुसन्धानशीलात्मा स्वानुसन्धानगोचरः  ।

स्वानुसन्धानशून्यात्मा स्वानुसन्धानाश्रयस्तथा ॥ १०६॥


स्वबोधदर्पणोऽभङ्गः कन्दर्पकुलनाशनः  ।

ब्रह्मचारी ब्रह्मवेत्ता ब्राह्मणो ब्रह्मवित्तमः ॥ १०७॥


तत्त्वबोधः सुधावर्षः पावनः पापपावकः  ।

ब्रह्मसूत्रविधेयात्मा ब्रह्मसूत्रार्धनिर्णयः ॥ १०८॥


आत्यन्तिको महाकल्पः सङ्कल्पावर्तनाशनः  ।

आधिव्याधिहरश्चैव संशयार्णवशोषकः ॥ १०९॥


तत्त्वात्मज्ञानसन्देशो महानुभवभावितः  ।

आत्मानुभवसम्पन्नः स्वानुभावसुखाश्रयः ॥ ११०॥


अचिन्त्यश्च बृहद्भानुः प्रमदोत्कर्षनाशनः  ।

अनिकेतप्रशान्तात्मा शून्यवासो जगद्वपुः ॥ १११॥


चिद्गतिश्चिन्मयश्चक्री मायाचक्रप्रवर्तकः  ।

सर्ववर्णविदारम्भी सर्वारम्भपरायणः ॥ ११२॥


पुराणः प्रवरो दाता सुन्दरः कनकाङ्गदी  ।

अनिसूयात्मजो दत्तः सर्वज्ञः सर्वकामदः ॥ ११३॥


कामजित्कामपालश्च कामी कामप्रदागमः  ।

कामवान्कामपोषश्च सर्वकामनिवर्तकः ॥ ११४॥


सर्वकर्मफलोत्पत्तिः सर्वकामफलप्रदः  ।

सर्वकर्मफलैः पूज्यः सर्वकर्मफलाश्रयः ॥ ११५॥


विश्वकर्मा कृतात्मा च कृतज्ञः सर्वसाक्षिकः  ।

सर्वारम्भपरित्यागी जडोन्मत्तपिशाचवान् ॥ ११६॥


भिक्षुर्भिक्षाकरश्चैव भैक्षाहारी निराश्रमी  ।

अकूलश्चानुकूलश्च विकलो ह्यकलस्तथा ॥ ११७॥


जटिलो वनचारी च दण्डी मुण्डी च गण्डवान्  ।

देहधर्मविहीनात्मा ह्येकाकी सङ्गवर्जितः ॥ ११८॥


आश्रम्यनाश्रमारम्भोऽनाचारी कर्मवर्जितः  ।

असन्देही च सन्देही न किञ्चिन्न च किञ्चनः ॥ ११९॥


नृदेही देहशून्यश्च नाभावी भावनिर्गतः  ।

नाब्रह्मच परब्रह्म स्वयमेव निराकुलः ॥ १२०॥


अनघश्चागुरुश्चैव नाथनाथोत्तमो गुरुः  ।

द्विभुजः प्राकृतश्चैव जनकश्च पितामहः ॥ १२१॥


अनात्मा न च नानात्मा नीतिर्नीतिमतां वरः  ।

सहजः सदृशः सिद्धश्चैकश्चिन्मात्र एव च ॥ १२२॥


न कर्तापि च कर्ता च भोक्ता भोगविवर्जितः  ।

तुरीयस्तुरीयातीतः स्वच्छः सर्वमयस्तथा ॥ १२३॥


सर्वाधिष्ठानरूपश्च सर्वध्येयविवर्जितः  ।

सर्वलोकनिवासात्मा सकलोत्तमवन्दितः ॥ १२४॥


देहभृद्देहकृच्चैव देहात्मा देहभावनः  ।

देही देहविभक्तश्च देहभावप्रकाशनः ॥ १२५॥


लयस्थो लयविच्चैव लयाभावश्च बोधवान्  ।

लयातीतो लयस्यान्तो लयभावनिवारणः ॥ १२६॥


विमुखः प्रमुखश्चैव प्रत्यङ्मुखवदाचरी  ।

विश्वभुग्विश्वधृग्विश्वो विश्वक्षेमकरस्तत्जा ॥ १२७॥


अविक्षिप्तोऽप्रमादी च परर्द्धिः परमार्थदृक्  ।

स्वानुभावविहीनश्च स्वानुभावप्रकाशनः ॥ १२८॥


निरिन्द्रियश्च निर्बुद्धिर्निराभासो निराकृतः  ।

निरहङ्कारश्चरूपात्मा निर्वपुः सकलाश्रयः ॥ १२९॥


शोकदुःखहरश्चैव भोगमोक्षफलप्रदः  ।

सुप्रसन्नस्तथा सूक्ष्मः शब्दब्रह्मार्थसङ्ग्रहः ॥ १३०॥


आगमापायशून्यश्च स्थानदश्च सताङ्गतिः  ।

अकृतः सुकृतश्चैव कृतकर्मा विनिर्वृतः ॥ १३१॥


भेदत्रयवरश्चैव देहत्रयविनिर्गतः  ।

सर्वकाममयश्चैव सर्वकामनिवर्तकः ॥ १३२॥


सिद्धेश्वरोऽजरः पञ्चबाणदर्पहुताशनः  ।

चतुरक्षरबीजात्मा स्वभूश्चित्कीर्तिभूषणः ॥ १३३॥


अगाधबुद्धिरक्षुब्धश्चन्द्रसूर्याग्निलोचनः  ।

यमदंष्ट्रोऽतिसंहर्ता परमानन्दसागरः ॥ १३४॥


लीलाविश्वम्भरो भानुर्भैरवो भीमलोचनः  ।

ब्रह्मचर्याम्बरः कालस्त्वचलश्चलनान्तकः ॥ १३५॥


आदिदेवो जगद्योनिर्वासवारिविमर्दनः  ।

विकर्मकर्मकर्मज्ञोऽनन्यगमकोऽगमः ॥ १३६॥


अबद्धकर्मशून्यश्च कामरागकुलक्षयः  ।

योगान्धकारमथनः पद्मजन्मादिवन्दितः ॥ १३७॥


भक्तकामोऽग्रजश्चक्री भावनिर्भावभावकः  ।

भेदान्तको महानग्र्यो निगूहो गोचरान्तकः ॥ १३८॥


कालाग्निशमनः शङ्खचक्रपद्मगदाधरः  ।

दीप्तो दीनपतिः शास्ता स्वच्छन्दो मुक्तिदायकः ॥ १३९॥


व्योमधर्माम्बरो भेत्ता भस्मधारी धराधरः  ।

धर्मगुप्तोऽन्वयात्मा च व्यतिरेकार्थनिर्णयः ॥ १४०॥


एकानेकगुणाभासाभासनिर्भासवर्जितः  ।

भावाभावस्वभावात्मा भावाभावविभाववित् ॥ १४१॥


योगिहृदयविश्रामोऽनन्तविद्याविवर्धनः ।

विघ्नान्तकस्त्रिकालज्ञस्तत्त्वात्मा ज्ञानसागरः ॥ १४२॥


इतीदं दत्तसाहस्रं सायं प्रातः पठेत्तु यः  ।

स इहामुत्र लभते निर्वाणं परमं सुखम् ॥ १४३॥


गुरुवारे दत्तभक्तो भक्तिभावसमन्वितः  ।

पठेत्सदैव तो ह्येतत्स लभेच्चिन्तितं ध्रुवम् ॥ १४४॥


इति श्रीमद्दत्तात्रेयपुराणोक्तं

श्रीमद्दत्तात्रेयसहस्रनामस्तोत्रं सम्पूर्णम् ॥

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

श्रीरुद्रद्वादशनामस्तोत्रम्

शिव नाम की महिमा

इन इक्कीस वस्तुओं को सीधे पृथ्वी पर रखना वर्जित होता है