अथ सर्वव्याधिहर वा रोगनाशनवैष्णवकवचम्

 ॥ अथ सर्वव्याधिहर वा रोगनाशनवैष्णवकवचम् ॥

〰️〰️〰️〰️〰️〰️〰️〰️〰️〰️〰️



जैसा कि नाम से ही स्पष्ट है सभी व्याधियों और रोग का नाश करने वाला वैष्णव कवच अर्थात् भगवान विष्णु के सभी अवतारों से रोग मुक्ति की प्रार्थना!


मनुष्य के रोगों का मूल कारण पिछले पाप कर्म फल, पथ्य-अपथ्य का विचार किये बिना भोजन करना, विपरीत जीवन शैली, काम, क्रोध, लोभ, मद (अहं), मोह, मत्सर हैं। 


अतः आरोग्य चाहने वाला किसी निरापद चिकित्सीय पद्धति का आश्रय लेकर उसके साथ में इस कवच का पाठ करके औषधी का सेवन करे तो रोगनाश का प्रतिशत अवश्य बढ़ जाता है। 


हरिरुवाच :-

सर्वव्याधिहरं वक्ष्ये वैष्णवं कवचं शुभम् ।

येन रक्षा कृता शम्भोर्दैत्यान्क्षपयतः पुरा॥१॥

पाठ भेद :- 

सर्वव्याधिहरं वक्ष्ये वैष्णवं कवचं शुभम् ।

येन रक्षा कृता शम्भोर्नात्र कार्या विचारणा॥१.१॥

प्रणम्य देवमीशानमजं नित्यमनामयम् ।

देवं सर्वेश्वरं विष्णुं सर्वव्यापिनमव्ययम् ॥२॥

बध्नाम्यहं प्रतिसरं नमस्कृत्य जनार्दनम् । 

अमोघाप्रतिमं सर्वं सर्वदुःखनिवारणम्॥३॥

पाठ भेद :-

बध्नाम्यहं प्रतीकारं नमस्कृत्य जनार्दनम् ।

अमोघाप्रतिमं सर्वं सर्वदुःखनिवारणम्॥३.१॥

विष्णुर्मामग्रतः पातु कृष्णो रक्षतु पृष्ठतः ।

हरिर्मे रक्षतु शिरो हृदयञ्च जनार्दनः॥४॥

मनो मम हृषीकेशो जिह्वां रक्षतु केशवः ।

प्रातु नेत्रे वासुदेवः श्रोत्रे सङ्कर्षणो विभुः॥५॥

प्रद्युम्नः पातु मे घ्राणमनिरुद्धस्तु चर्म च ।

वनमाली गलस्यान्तं श्रीवत्सो रक्षतामधः॥६॥

पार्श्वं रक्षतु मे चक्रं वामं दैत्यनिवारणम् ।

दक्षिणन्तु गदादेवी सर्वासुरनिवारिणी॥७॥

उदरं मुसलं पातु पृष्ठं मे पातु लाङ्गलम् ।

ऊर्ध्वं रक्षतु मे शार्ङ्गं जङ्घे रक्षतु नन्दकः॥८॥

पार्ष्णी रक्षतु शङ्खश्च पद्मं मे चरणावुभौ ।

सर्वकार्यार्थसिद्ध्यर्थं पातु मां गरुडः सदा॥९॥

वराहो रक्षतु जले विषमेषु च वामनः ।

अटव्यां नारसिंहश्च सर्वतः पातु केशवः॥१०॥

हिरण्यगर्भो भगवान्हिरण्यं मे प्रयच्छतु ।

साङ्ख्याचार्यस्तु कपिलो धातुसाम्यं करोतु मे॥११॥

श्वेतद्वीपनिवासी च श्वेतद्वीपं नयत्वजः ।

सर्वान्सूदयतां शत्रून्मधुकैटभमर्दनः ॥१२॥

पाठ भेद :-

श्वेतद्वीपनिवासी च श्वेतद्वीपं नयत्वजः।

सर्वान्सूदनः शत्रून्मधुकैटभमर्दनः ॥१२.१॥

सदाकर्षतु विष्णुश्च किल्बिषं मम विग्रहात् ।

हंसो मत्स्यस्तथा कूर्मः पातु मां सर्वतो दिशम्॥१३॥

त्रिविक्रमस्तु मे देवः सर्वपापानि कृन्ततु । 

तथा नारायणो देवो बुद्धिं पालयतां मम ॥ १४॥

पाठ भेद :-

त्रिविक्रमस्तु मे देवः सर्वपापान्निगृह्णतु । 

तथा नारायणो देवो बुद्धिं पालयतां मम ॥१४.१॥

शेषो मे निर्मलं ज्ञानं करोत्वज्ञाननाशनम् ।

वडवामुखो नाशयतां कल्मषं यत्कृतं मया ॥१५॥

पद्भ्यां ददातु परमं सुखं मूर्ध्नि मम प्रभुः ।

दत्तात्रेयः प्रकुरुतां सपुत्रपशुबान्धवम् ॥ १६॥

पाठ भेद :-

पद्भ्यां ददातु परमं सुखं मूर्ध्नि मम प्रभुः।

दत्तात्रेयः कलयतु सपुत्रपशुबान्धवम् ॥१६.१॥

सर्वानरीन्नाशयतु रामः परशुना मम ।

रक्षोघ्नस्तु दशरथिः पातु नित्यं महाभुजः॥१७॥

शत्रून्हलेन मे हन्याद्रमो यादवनन्दनः।

प्रलम्बकेशिचाणूरपूतनाकंसनाशनः।

कृष्णस्य यो बालभावःस मे कामान्प्रयच्छतु॥१८॥

अन्धकारतमोघोरं पुरुषं कृष्णपिङ्गलम् ।

पश्यामि भयसन्त्रस्तः पाशहस्तमिवान्तकम्॥१९॥

ततोऽहं पुण्डरीकाक्षमच्युतं शरणं गतः ।

धन्योऽहं निर्भयो नित्यं यस्य मे भगवान्हरिः॥२०॥

ध्यात्वा नारायणं देवं सर्वोपद्रवनाशनम् ।

वैष्णवं कवचं बद्ध्वा विचरामि महीतले॥२१॥

अप्रधृष्योऽस्मि भूतानां सर्वदेवमयो ह्यहम् ।

स्मरणाद्देवदेवस्य विष्णोरमिततेजसः॥२२॥

सिद्धिर्भवतु मे नित्यं यथा मन्त्रमुदाहृतम् ।

यो मां पश्यति चक्षुर्भ्यां यञ्चः पश्यामि चक्षुषा ।

सर्वेषां पापदुष्टानां विष्णुर्बध्नातु चक्षुषी॥२३॥

वासुदेवस्य यच्चक्रं तस्य चक्रस्य ये त्वराः ।

ते हि छिन्दन्तु पापान्मे मम हिंसन्तु हिंसकान्॥२४॥

पाठ भेद :- 

वासुदेवस्य यच्चक्रं तस्य चक्रस्य ये त्वराः ।

ते हि छिन्दन्तु पापानि मम हिंसन्तु हिंसकान्॥२४.१॥

राक्षसेषु पिशाचेषु कान्तारेष्वटवीषु च ।

विवादे राजमार्गेषु द्यूतेषु कलहेषु च॥२५॥

नदीसन्तारणे घोरे सम्प्राप्ते प्राणसंशये ।

अग्निचौरनिपातेषु सर्वग्रहनिवारणे॥२६॥

विद्युत्सर्पविषोद्वेगे रोगे वै विघ्नसङ्कटे ।

जप्यमेतज्जपेन्नित्यं शरीरे भयमागते॥२७॥

अयं भगवतो मन्त्रो मन्त्राणां परमो महान् ।

विख्यातं कवचं गुह्यं सर्पपापप्रणाशनम् ।

स्वमायाकृतिनिर्माणं कल्पान्तगहनं महत्॥२८॥

ॐ अनाद्यन्त जगद्बीज पद्मनाभ नमोऽस्तु ते ।

ॐ कालाय स्वाहा । ॐ कालपुरुषाय स्वाहा । 

ॐ कृष्णाय स्वाहा । ॐ कृष्णरूपाय स्वाहा । 

ॐ चण्डाय स्वाहा । ॐ चण्डरूपाय स्वाहा ।

ॐ प्रचण्डाय स्वाहा । ॐ प्रचण्डरूपाय स्वाहा । 

ॐ सर्वाय स्वाहा । ॐ सर्वरूपाय स्वाहा । 

ॐ नमो भुवनेशाय त्रिलोकधात्रे इह विटि

सिविटि सिविटि स्वाहा । 

ॐ नमः अयोखेतये ये ये संज्ञापय (संज्ञायापात्र)

दैत्यदानवयक्षराक्षसभूतपिशाचकूष्माण्डान्तापस्मार

कच्छर्दनदुर्धराणा-मेकाहिकद्व्याहिकत्र्याहिकचातुर्थिक मौहूर्तिकदिनज्वररात्रिज्वरसन्ध्याज्वरसर्वज्वरादीनां

लूताकीटकण्टकपूतनाभुजङ्गस्थावरजङ्गमविषादीनामिदं 

शरीरं मम पथ्यं त्वं कुरु स्फुट स्फुट स्फुट प्रकोट लफट

विकटदंष्ट्रः पूर्वतो रक्षतु । ॐ है है है है दिनकर्सहस्र-

कालसमाहतो जय पश्चिमतो रक्ष । ॐ निवि निवि 

प्रदीप्तज्वलनज्वालाकार महाकपिल उत्तरतो रक्ष ।

ॐ विलि विलि मिलि मिलि गरुडि गरुडि 

गौरीगान्धारीविषमोहविषमविषमां

महोहयतु स्वाहा दक्षिणतो रक्ष । मां पश्य 

सर्वभूतभयोपद्रवेभ्यो रक्ष रक्ष जय जय

विजय तेन हीयते रिपुत्रासाहङ्कृतवाद्यतोभय रुदय 

वोभयोऽभयं दिशतु च्युतः तदुदरमखिलं विशन्तु

युगपरिवर्तसहस्रसङ्ख्येयोऽस्तमलमिव प्रविशन्ति रश्मयः।

वासुदेवसङ्कर्षणप्रद्युम्नश्चानिरुद्धकः।

सर्वज्वरान्मम घ्नन्तु विष्णुर्नारायणो हरिः॥२९॥


॥ इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये 

आचारकाण्डे वैष्णवकवचकथनं नाम 

चतुर्नवत्युत्तरशततमोऽध्यायः॥

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

श्रीरुद्रद्वादशनामस्तोत्रम्

शिव नाम की महिमा

इन इक्कीस वस्तुओं को सीधे पृथ्वी पर रखना वर्जित होता है