शनिवार, 18 फ़रवरी 2023

समस्त पापों के नाश हेतु श्री रुद्र द्वादश नाम स्तोत्र

 *श्रीरुद्रद्वादशनामस्तोत्रं*

〰️〰️〰️🌸🕉️🌸〰️〰️〰️



प्रथमं तु महादेवं द्वितीयं तु महेश्वरं ।

तृतीयं शङ्करं प्रोक्तं चतुर्थं वृषभध्वजम् ॥ १॥


पञ्चमं कृत्तिवासं च षष्ठं कामाङ्गनाशनं ।

सप्तमं देवदेवेशं श्रीकण्ठं चाष्टमं तथा ॥ २॥


नवमं तु हरं देवं दशमं पार्वतीपतिं ।

रुद्रमेकादशं प्रोक्तं द्वादशं शिवमुच्यते ॥ ३॥


एतद्वादशनामानि त्रिसन्ध्यं यः पठेन्नरः ।

गोघ्नश्चैव कृतघ्नश्च भ्रूणहा गुरुतल्पगः ॥ ४॥


स्त्रीबालघातकश्चैव सुरापो वृषलीपतिः ।

सर्वं नाशयते पापं शिवलोकं स गच्छति ॥ ५॥


शुद्धस्फटिकसङ्काशं त्रिनेत्रं चन्द्रशेखरं ।

इन्दुमण्डलमध्यस्थं वन्दे देवं सदाशिवम् ॥ ६॥


॥श्रीरुद्रद्वादशनामस्तोत्रं सम्पूर्णम् ॥

〰️〰️〰️🌸🕉️🌸〰️〰️〰️

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

If u have any query let me know.

पितृपक्ष में परान्न से बचें

 गरुड़ पुराणोक्त पितृपक्ष परान्न निषेध कथा सनातन धर्म में 16 दिनों का पितृपक्ष वर्ष का सबसे सूक्ष्म और संवेदनशील समय माना गया है। गरुड़ पुरा...