शुक्रवार, 5 जुलाई 2019

श्रीजगन्नाथाष्टकम्

श्रीजगन्नाथाष्टकम् 


कदाचित् कालिन्दी_तट_विपिन_सङ्गीत_तरलो
मुदाभीरी_नारी_वदन_कमलास्वाद_मधुपः ।
रमा_शम्भु_ब्रह्मामर_पति_गणेशार्चित_पदो
जगन्नाथः स्वामी नयन_पथ_गामी भवतु मे ॥१॥

भुजे सव्ये वेणुं शिरसि शिखि_पिच्छं कटितटे
दुकूलं नेत्रान्ते सहचर_कटाक्षं च विदधत् ।
सदा श्रीमद्वृन्दावन_वसति_लीला_परिचयो
जगन्नाथः स्वामी नयन_पथ_गामी भवतु मे ॥२॥

महाम्भोधेस्तीरे कनक_रुचिरे नील_शिखरे
वसन् प्रासादान्तः सहज_वलभद्रेण बलिना ।
सुभद्रा_मध्यस्थः सकल_सुर_सेवावसर_दो
जगन्नाथः स्वामी नयन_पथ_गामी भवतु मे ॥३॥

कृपा_पारावारः सजल_जलद_श्रेणि_रुचिरो
रमा_वाणी_रामः स्फुरदमल_पंकेरुह_मुखः ।
सुरेन्द्रैराराध्यः श्रुति_गण_शिखा_गीत_चरितो
जगन्नाथः स्वामी नयन_पथ_गामी भवतु मे ॥४॥

रथारूढो गच्छन् पथि मिलित_भूदेव पटलैः
स्तुति_प्रादुर्भावं प्रति_पदमुपाकर्ण्य सदयः ।
दया_सिन्धुर्बन्धुः सकल_जगतां सिन्धु_सुतया
जगन्नाथः स्वामी नयन_पथ_गामी भवतु मे ॥५॥

परंब्रह्मापीडः कुवलय_दलोत्फुल्ल_नयनो
निवासी नीलाद्रौ निहित_चरणोऽनन्त_शिरसि ।
रसानन्दी राधा_सरस_वपुरालिङ्गन_सुखो
जगन्नाथः स्वामी नयन_पथ_गामी भवतु मे ॥६॥

न वै याचे राज्यं न च कनक_माणिक्य_विभवं
न याचेऽहं रम्यां सकल_जन_काम्यां वरवधूम् ।
सदा काले काले प्रमथ_पतिना गीत_चरितो
जगन्नाथः स्वामी नयन_पथ_गामी भवतु मे ॥७॥

हर त्वं संसारं द्रुततरमसारं सुरपते
हर त्वं पापानां विततिमपरां यादवपते ।
अहो दीनेऽनाथे निहित_चरणो निश्चितमिदं
जगन्नाथः स्वामी नयन_पथ_गामी भवतु मे ॥८॥

जगन्नाथाष्टकं पुण्यं यः पठेत् प्रयतः शुचि ।
सर्वपाप_विशुद्धात्मा विष्णुलोकं स गच्छति ॥९॥

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

If u have any query let me know.

गजासुर का वध

 ((((((( महादेव का वरदान ))))))) 🔸🔸🔹🔸🔸🔹🔸🔸🔹🔸🔸 गज और असुर के संयोग से एक असुर का जन्म हुआ. उसका मुख गज जैसा होने के कारण उसे गजासु...