अथ लघु विष्णुसहस्त्रनाम स्तोत्रम्

 ॥अथ लघु विष्णुसहस्त्रनाम स्तोत्रम्॥



अलं नामसहस्रेण केशवोऽर्जुनमब्रवित्।

श्रुणु मे पार्थ नामानि यैश्चतुष्यामि सर्वदा॥१॥


केशवः पुण्डरीकाक्षः स्वयंभूर्मधुसूदनः।

दामोदरो हृषीकेशः पद्मनाभो जनार्दनः॥२॥

विष्वक्सेनो वासुदेवो हरिर्नारायणस्तथा।

अनंतश्च प्रबोधश्च सत्यः कृष्णः सुरोत्तमः॥३॥

आदिकर्ता वराहश्च वैकुण्ठो विष्णुरच्युतः।

श्रीधरः श्रीपतिः श्रीमान् पक्षिराजध्वजस्तथा॥४॥


एतानि मम नामानि विद्यार्थी ब्राह्मणः पठेत्।

क्षत्रियो विजयस्यार्थे वैश्यो धनसमृद्धये॥५॥

नाग्निराजभयं तस्य न चोरात् पन्नगाद्भयम्।

राक्षसेभ्यो भयं नास्ति व्याधिभिर्नैव पीड्यते॥६॥

इदं नामसहस्त्रं तु केशवेनोद्धृतं स्तवम्।

उद्धृत्य चार्जुने दत्तं युद्धे शत्रुविनाशनम्॥७॥


॥इति श्री विष्णुपुराणे लघु विष्णुसहस्त्रनामस्तवः॥

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

श्रीरुद्रद्वादशनामस्तोत्रम्

शिव नाम की महिमा

इन इक्कीस वस्तुओं को सीधे पृथ्वी पर रखना वर्जित होता है