शनिवार, 4 मार्च 2017

श्रीमज्जगद्गुरुशङ्करभगवत्पूज्यपादाचार्यस्तवः


॥ श्रीमज्जगद्गुरुशङ्करभगवत्पूज्यपादाचार्यस्तवः ॥
ॐ श्री गुरुभ्यो नमः ।
मुदा करेण पुस्तकं दधानमीशरूपिणं
तथाऽपरेण मुद्रिकां नमत्तमोविनाशिनीम् ।
कुसुंभवाससावृतं विभूतिभासिफालकं
नताघनाशने रतं नमामि शङ्करं गुरुम् ॥ १॥
पराशरात्मजप्रियं पवित्रितक्षमातलं
पुराणसारवेदिनं सनंदनादिसेवितम् ।
प्रसन्नवक्त्रपंकजं प्रपन्नलोकरक्षकं
प्रकाशिताद्वितीयतत्त्वमाश्रयामि देशिकं ॥ २॥
सुधांशुशेखारार्चकं सुधीन्द्रसेव्यपादुकं
सुतादिमोहनाशकं सुशान्तिदान्तिदायकम् ।
समस्तवेदपारगं सहस्रसूर्यभासुरं
समाहिताखिलेन्द्रियं सदा भजामि शङ्करम् ॥ ३॥
यमीन्द्रचक्रवर्तिनं यमादियोगवेदिनं
यथार्थतत्त्वबोधकं यमान्तकात्मजार्चकम् ।
यमेव मुक्तिकांक्षया समाश्रयन्ति सज्जना
नमाम्यहं सदा गुरुं तमेव शङ्कराभिधम् ॥ ४॥
स्वबाल्य एव निर्भरं य आत्मनो दयालुतां
दरिद्रविप्रमन्दिरे सुवर्णवृष्टिमानयन् ।
प्रदर्श्य विस्मयाम्बुधौ न्यमज्जयत् समान् जनान्
स एव शङ्करः सदा जगद्गुरुर्गतिर्मम ॥ ५॥
यदीयपुण्यजन्मना प्रसिद्धिमाप कालटी
यदीयशिष्यतां व्रजन् स तोटकोऽपि पप्रथे ।
य एव सर्वदेहिनां विमुक्तिमार्गदर्शको
नराकृतिं सदाशिवं तमाश्रयामि सद्गुरुम् ॥ ६॥
सनातनस्य वर्त्मनः सदैव पालनाय यः
चतुर्दिशासु सन्मठान् चकार लोकविश्रुतान् ।
विभाण्डकात्मजाश्रमादिसुस्थलेषु पावनान्
तमेव लोकशङ्करं नमामि शङ्करं गुरुम् ॥ ७॥
यदीयहस्तवारिजातसुप्रतिष्ठिता सती
प्रसिद्धशृङ्गभूधरे सदा प्रशान्तिभासुरे ।
स्वभक्तपालनव्रता विराजते हि शारदा
स शङ्करः कृपानिधिः करोतु मामनेनसम् ॥ ८॥
इमं स्तवं जगद्गुरोर्गुणानुवर्णनात्मकं
समादरेण यः पठेदनन्यभक्तिसंयुतः ।
समाप्नुयात् समीहितं मनोरथं नरोऽचिरात्
दयानिधेः स शङ्करस्य सद्गुरोः प्रसादतः ॥ ९॥
इति श्रीभारतीतीर्थमहास्वामिभिः विरचितम्
शंकरभगवत्पूज्यपादाचार्यस्तवः सम्पूर्णं ॥

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

If u have any query let me know.

दायें कान पर ही क्यों यज्ञोपवीत

 अशौच आदि अवस्था में यज्ञोपवित को दायें कान पर ही क्यों टांगना चाहिए         यज्ञोपवित बहुत ही पवित्र सूत्र है - जिसे हमेशा हर परिस्थिति में...