॥ अच्युताष्टकं ॥

                   ॥ अच्युताष्टकं ॥

अच्युतं केशवं रामनारायणं  कृष्णदामोदरं वासुदेवं हरिम् ।
श्रीधरं माधवं गोपिकावल्लभं  जानकीनायकं रामचन्द्रं भजे ॥ १॥
अच्युतं केशवं सत्यभामाधवं  माधवं श्रीधरं राधिकाराधितम् ।
इन्दिरामन्दिरं चेतसा सुन्दरं  देवकीनन्दनं नन्दनं संदधे ॥ २॥
विष्णवे जिष्णवे शङ्खिने चक्रिणे  रुक्मिनीरागिणे जानकीजानये ।
वल्लवीवल्लभायाऽर्चितायात्मने  कंसविध्वंसिने वंशिने ते नमः ॥ ३॥
कृष्ण गोविन्द हे राम नारायण  श्रीपते वासुदेवाजित श्रीनिधे ।
अच्युतानन्त हे माधवाधोक्षज  द्वारकानायक द्रौपदीरक्षक ॥ ४॥
राक्षसक्षोभितः सीतया शोभितो  दण्डकारण्यभूपुण्यताकारणः ।
लक्ष्मणेनान्वितो वानरैः सेवितोऽगस्त्यसम्पूजितो राघवः पातु माम् ॥ ५॥
धेनुकारिष्टकोऽनिष्टकृद्द्वेषिणां  केशिहा कंसहृद्वंशिकावादकः ।
पूतनाकोपकः सूरजाखेलनो  बालगोपालकः पातु माम् सर्वदा ॥ ६॥
विद्युदुद्धयोतवानप्रस्फुरद्वाससं  प्रावृडम्भोदवत्प्रोल्लसद्विग्रहम् ।
वन्यया मालया शोभितोरःस्थलं  लोहितांघ्रिद्वयं वारिजाक्षं भजे ॥ ७॥
कुञ्चितैः कुन्तलैर्भ्राजमानाननं  रत्नमौलिं लसत् कुण्डलं गण्डयोः ।
हारकेयूरकं कङ्कणप्रोज्ज्वलं  किङ्किणीमञ्जुलं श्यामलं तं भजे ॥ ८॥
अच्युतस्याष्टकं यः पठेदिष्टदं प्रेमतः प्रत्यहं पूरुषः सस्पृहम् ।
वृत्ततः सुंदरं कर्तृ विश्वंभरं तस्य वश्यो हरिर्जायते सत्वरम् ॥ ९॥
॥ इति श्रीशंकराचार्यविरचितमच्युताष्टकं सम्पूर्णम् ॥

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

इन इक्कीस वस्तुओं को सीधे पृथ्वी पर रखना वर्जित होता है

शनैश्चरी सर्वपितृ अमावस्या विशेष

दुर्गाष्टमी पूजा एवं कन्या पूजन विधान विशेष