||श्री दक्षिणामूर्ति नवरत्नमालिका स्तोत्रम्||


मूलेवटस्य मुनिपुङ्गवसेव्यमानं
मुद्राविशेषमुकुलीकृतपाणिपद्मम् .
मन्दस्मितं मधुरवेषमुदारमाद्यं
तेजस्तदस्तु हृदि मे तरुणेन्दुचूडम् .. १..

शान्तं शारदचन्द्रकान्तिधवळं चन्द्राभिरमाननं
चन्द्रार्कोपमकान्तिकुण्डलधरं चन्द्रावदातांशुकम् .
वीणापुस्तकमक्षसूत्रवलयं व्याख्यानमुद्रांकरै-
र्बिभ्राणं कलये हृदा मम सदा शास्तारमिष्टार्थदम् .. २..

कर्पूरपात्रमरविन्ददळायताक्षं
कर्पूरशीतलहृदं करुणाविलासम् .
चन्द्रार्धशेखरमनन्तगुणाभिराम-
मिन्द्रादिसेव्यपदपङ्कजमीशमीडे .. ३..

द्युद्रोधः स्वर्णमयासनस्थं
मुद्रोल्लसद्बाहुमुदारकायम् .
सद्रोहिणीनाथकळावतंसं
भद्रोदधिं कञ्चन चिन्तयामः .. ४..

उद्यद्भास्करसन्निभं त्रिणयनं श्वेताङ्गरागप्रभं
बालं मौञ्जिधरं प्रसन्नवदनं न्यग्रोधमूलेस्थितम् .
पिङ्गाक्षं मृगशावकस्थितिकरं सुब्रह्मसूत्राकृतिम्
भक्तानामभयप्रदं भयहरं श्रीदक्षिणामूर्तिकम् ..५..

श्रीकान्तद्रुहिणोपमन्यु तपन स्कन्देन्द्रनन्द्यादयः
प्राचीनागुरवोऽपियस्य करुणालेशाद्गतागौरवम् .
तं सर्वादिगुरुं मनोज्ञवपुषं मन्दस्मितालङ्कृतं
चिन्मुद्राकृतिमुग्धपाणिनळिनं चित्तं शिवं कुर्महे .. ६..

कपर्दिनं चन्द्रकळावतंसं
त्रिणेत्रमिन्दुपतिमाननोज्वलम् .
चतुर्भुजं ज्ञानदमक्षसूत्र-
पुस्ताग्निहस्तं हृदि भावयेच्छिवम् .. ७..

वामोरूपरिसंस्थितां गिरिसुतामन्योन्यमालिंगितां
श्यामामुत्पलधारिणी शशिनिभांचालोकयन्तं शिवम् .
आश्लिष्टेन करेण पुस्तकमधो कुंभं सुधापूरितं
मुद्रां ज्ञानमयीं दधानमपरैर्मुक्ताक्षमालां भजे.. ८..

वटतरुनिकटनिवासं पटुतरविज्ञानमुद्रितकराब्जम् .
कञ्चनदेशिकमाद्यं कैवल्यानन्दकन्दळं वन्दे .. ९..

इति श्री दक्षिणामूर्ति नवरत्नमाला स्तोत्रं संपूर्णम् ..

कर्पूरगौरं करुणावतार संसारसारम् भुजगेन्द्रहारम् ।
सदावसन्तं हृदयारविन्द भवं भवानीसहितं नमामि ॥

ॐ नमः शिवाय !ॐ नमः शिवाय !ॐ नमः शिवाय !ॐ नमः शिवाय ! ॐ नमः शिवाय !

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

श्रीरुद्रद्वादशनामस्तोत्रम्

शिव नाम की महिमा

इन इक्कीस वस्तुओं को सीधे पृथ्वी पर रखना वर्जित होता है